|
|
 |
 |
|
|
४ विराटपर्व.jpg)
॥ श्रीः ॥
4.27. अध्यायः 027
Mahabharata - Virata Parva - Chapter Topics
भ्रातृवधामर्पितैरुपकीचकैः पाञ्चाल्याः कीचकेन सह चरमविमानसमारोपणेन श्मशानप्रापणम् ॥ 1 ॥ द्रौपदीसमाक्रन्दनिनदश्रवणात्पितृवनमुपागतवता भीमेनोपकीचकानां पञ्चाधिकशतस्य पञ्चताप्रापणम् ॥ 2 ॥ भीमेन द्रौपद्याः पतिव्रतोपाख्यानकथनात्समाश्वासनेन स्वावासप्रेपणपूर्वकं महानसप्रवेशः ॥ 3 ॥
Mahabharata - Virata Parva - Chapter Text
वैशम्पायन उवाच। 4-27-0x(3101)(29434)
तत्काले तु समागम्य सर्वे तत्रास्य बान्धवाः ।
रुरुदुः कीचकं दृष्ट्वा परिवार्योपतस्थिरे ॥ 1 । 4-27-1(29435)
सर्वे संहृष्टरोमाणः संत्रस्ताः प्रेक्ष्य कीचकम्।
तथा संभुग्नसर्वाङ्गं कूर्मं स्थल इवोद्धृतम् ॥ 2 ॥ 4-27-2(29436)
पोथितं भीमसेनेन महेन्द्रेणेव दानवम्।
कीचकं बलसंमत्तं दुर्धर्षं येन केन चित् ॥ 3 ॥ 4-27-3(29437)
गन्धर्वेण हतं श्रुत्वा कीचकं पुरुषर्षभम्।
संस्कारयितुमिच्छन्तो बहिर्नेतुं प्रचक्रमुः ॥ 4 ॥ 4-27-4(29438)
अपश्यन्नथ ते कृष्णां मूतपुत्राः समागताः।
अदूरादनवद्याङ्गीं स्तम्भमालिङ्ग्य तिष्ठतीम् ॥ 5 ॥ 4-27-5(29439)
समागतेषु सूतेषु तानुवाचोपकीचकः।
हसन्निव पदाऽमर्षान्निर्दहन्निव चक्षुषा ॥ 6 ॥ 4-27-6(29440)
हन्यतां शीघ्रमसती यत्कृते कीचको हतः।
अथवा नैव हन्तव्या दह्यतां कामिना सह ॥ 7 ॥ 4-27-7(29441)
मृतस्यापि प्रियं कार्यं सूतपुत्रस्य सर्वथा ।
इयं हि दुष्टचरिता मम भ्रातुरमित्रिणी ॥ 8 ॥ 4-27-8(29442)
यत्कृते मरणं प्राप्तो नेयं जीवितुमर्हति।
सहेयं दह्यतां सूता आमन्त्र्य च जनाधिपम् ।
हतस्यापि हि गन्धर्वैः कीचकस्य प्रियं भवेत् ॥ 9 ॥ 4-27-9(29443)
वैशम्पायन उवाच ॥ 4-27-10x(3102)
ततो विराटमासाद्य सूताः प्राञ्जलयोऽब्रुवन्।
कीचकोऽयं हतः शेते गन्धर्वैः कामरूपिभिः ॥ 10 ॥ 4-27-10(29444)
सैरन्ध्र्या घातितो रात्रौ तं दहेम सहानया ।
मानिताः स्मस्त्वया वीर तदनुज्ञातुमर्हसि ॥ 11 ॥ 4-27-11(29445)
पराक्रमं तु सूतानां ज्ञात्वा राजाऽन्वमन्यत ।
सैरन्ध्र्याः सूतपुत्रेण सह दाहं नराधिपः ॥ 12 ॥ 4-27-12(29446)
ततस्ते समनुज्ञाताः सर्वे तत्रास्य बान्धवाः।
रुरुदुः कीचकं दृष्ट्वा परिवार्याभितः स्थिताः ॥ 13 ॥ 4-27-13(29447)
आरोप्य कृष्णां सह कीचकेन निबध्य केशेषु च पादयोश्च।
ते चापि सूता वचनैरवोचन्नुद्दिश्य चैनामभिवीक्ष्य कृष्णाम् ॥ 14 ॥ 4-27-14(29448)
यस्याः कृतेऽयं निहतो महात्मा तस्माद्धि सा कीचकमार्गमेतु ।
अवार्यसत्वेन च कीचकेन गतासुना सुन्दरी स्वर्गलोकम् ॥ 15 ॥ 4-27-15(29449)
सा तेन कृष्णा शयने निबद्धा यशस्विनी चैव मनस्विनी च।
अनार्यसत्त्वेन महार्यसत्त्वा गतासुना सा प्ररुरोद कृष्णा ।
विलम्बमाना विवशा हि दुष्टैस्तत्रैव पर्यङ्कवरे शुभाङ्गी ॥ 16 ॥ 4-27-16(29450)
ह्रियमाणाऽथ सुश्रोणी सूतपुत्रैरनिन्दिता।
प्राक्रोशन्नाथमिच्छन्ती कृष्णा नाथवती सती ॥ 17 ॥ 4-27-17(29451)
मृतेन सह बद्धाङ्गी निराशा जीविते तदा।
श्मशानाभिमुखं नीता करेणुरिव रौति सा ॥ 18 ॥ 4-27-18(29452)
द्रौपद्युवाच। 4-27-19x(3103)
जयो जयेशो विजयो जयत्सेनो जयद्बलः।
त मे वाचं विजानन्तु सूतपुत्रा नयन्ति माम् ॥ 19 ॥ 4-27-19(29453)
येषां दुन्दुभिनिर्घोषो ज्याघोषः श्रूयते महान्।
ते मे वाचं विजानन्तु सूतपुत्रा नयन्ति माम् ॥ 20 ॥ 4-27-20(29454)
येषां ज्यातलनिर्घोषो विस्फूर्जितमिवाशनेः।
अश्रूयत महान्युद्धे भीमघोपस्तरस्विनाम् ॥ 21 ॥ 4-27-21(29455)
रथघोपश्च बलवान्गन्धर्वाणां तरस्विनाम् ।
ते मे वाचं बिजानन्तु सूतपुत्रा नयन्ति माम् ॥ 22 ॥ 4-27-22(29456)
येषां वीर्यमतुल्यं तु शक्रस्येव बलं यशः।
राजसिंहा इवाग्र्यास्ते मां जानन्तु सुदुःखितां ॥ 23 ॥ 4-27-23(29457)
इत्यस्याः कृपणा वाचः कृष्णायाः परिदेविताः।
श्रुत्वैवाभ्युत्थितो भीमः शयनादविचारयन् ॥ 24 ॥ 4-27-24(29458)
भीम उवाच। 4-27-25x(3104)
अहं सैरन्ध्रि ते वाचः शृणोमि तव भाषिताः।
तस्मात्ते सूतपुत्रेभ्यो न भयं जातु विद्यते ॥ 25 ॥ 4-27-25(29459)
वैशम्पायन उवाच। 4-27-26x(3105)
इत्युक्त्वा स महाबाहुर्विजजृम्भे जिघांसया ॥ 26 ॥ 4-27-26(29460)
ततः स व्यायतं बद्ध्वा वस्त्रं विपरिवेष्ट्य च।
अद्वारेणाभ्यवस्कन्द्य निर्जगाम बहिस्तदा ॥ 27 ॥ 4-27-27(29461)
स लङ्घयित्वा प्राकारमारुह्य तरसा द्रुमम् ।
श्मशानाभिमुखः प्रायाद्यत्र ते कीचका गताः ॥ 28 ॥ 4-27-28(29462)
स लङ्घयित्वा प्राकारं निःसृत्य च पुरोत्तमात् ।
जवेनोत्पतितो भीमः सूतानामग्रतस्तदा ॥ 29 ॥ 4-27-29(29463)
चितासमीपं गत्वा स तत्रापश्यन्महाबलः ।
तालमात्रं महास्कन्धमूर्ध्वशुष्कं वनस्पतिम् ॥ 30 ॥ 4-27-30(29464)
तं नागवदुपक्रम्य बाहुभ्यां परिरभ्य च।
वृक्षमुत्पाटयामास भीमो भीमपराक्रमः ॥ 31 ॥ 4-27-31(29465)
ततो वृक्षं दशव्यामं निष्पत्रमकरोत्तदा ॥ 32 ॥ 4-27-32(29466)
तं महाकायमुद्यम्य भ्रामयित्वा च वेगितः।
प्रगृह्याभ्यपतत्सूतान्दण्डपाणिरिवान्तकः॥ 33 ॥ 4-27-33(29467)
ऊरुवेगेन तस्याथ न्यग्रोधाश्वत्थकिंशुकाः।
भूमौ निपतिता वृक्षाः संभग्नास्तत्र शेरते ॥ 34 ॥ 4-27-34(29468)
तं सिंहमिव संक्रुद्धं दृष्ट्वा गन्धर्वमागतम्।
वित्रेसुश्च तदा सूता विपादभयपीडिताः ॥ 35 ॥ 4-27-35(29469)
तमन्तकमिव क्रुद्धं गन्धर्वभयशङ्किताः।
दिधक्षन्तस्तथा ज्येष्ठं भ्रातरं चोपकीचकाः।
परस्परमथोचुस्ते विषादभयमोहिताः ॥ 36 ॥ 4-27-36(29470)
गन्धर्वो बलवानेति क्रुद्ध उद्यम्य पादपम्।
प्रबुद्धाः सुमहाभागा गन्धर्वाः सूर्यवर्चसः।
सैरन्ध्री मुच्यतां शीघ्रं भयं नो महदागतम् ॥ 37 ॥ 4-27-37(29471)
वैशम्पायन उवाच। 4-27-38x(3106)
ते दृष्ट्वाऽथ समाविद्धं भीमसेनेन पादपम् ।
विमुच्य द्रौपदीं त्रस्ताः प्राद्रवन्नगरं प्रति ॥ 38 ॥ 4-27-38(29472)
द्रवतस्तांश्च संप्रेक्ष्य स वज्री दानवानिव ।
अथ भीमः समुत्पत्य द्रवतां पुरतोऽभवत् ॥ 39 ॥ 4-27-39(29473)
ते तं दृष्ट्वा भयोद्विग्ना निश्चेष्टाः समवस्थिताः ॥ 40 ॥ 4-27-40(29474)
दृष्ट्वा ताञ्शतसङ्ख्यकान्स वज्री दानवानिव।
एकेनैव प्रहारेण दश सप्त च विंशतिम्।
अष्टादश च पञ्चाशञ्जघान स वृकोदरः ॥ 41 ॥ 4-27-41(29475)
शतं पञ्चाधिकं भीमः प्राहिणोद्यमसादनम्।
वृक्षेणैकेन राजेन्द्र प्रभञ्जनसुतो बली।
वायुवेगसमः श्रीमान्सर्वान्सूतानशेषतः ॥ 42 ॥ 4-27-42(29476)
तान्निहत्य महाबाहुर्भीमसेनो महाबलः।
आश्वासयत्तदा कृष्णां प्रतिमुच्य च बन्धनात् ॥ 43 ॥ 4-27-43(29477)
उवाच श्लक्ष्णया वाचा पाञ्चालीं भरतर्षभः ।
अश्रुपूर्णमुखीं भीतामुद्धरन्स वृकोदरः ॥ 44 ॥ 4-27-45a[ मा खिदस्त्वं(*) याज्ञसेनि पातिव्रत्यव्रते स्थिता।
पातिव्रत्ये स्थिता नारी व्रतं रक्षेत्सदाऽत्मनः॥ 45 ॥ 4-27-44(29478)
पुरा स्त्री देवरातस्य पतिप्रीता शिरोमणिः।
कदाचिद्भर्तृरूपेण रक्षसाऽपहृता सती ॥ 46 ॥ 4-27-46(29479)
कस्यचित्सरसस्तीरे तां निवेश्य स राक्षसः।
तद्भर्तृरूपं संत्यज्य रक्षो भूत्वा सुदारुणम् ॥ 47 ॥ 4-27-47(29480)
साम्ना दानेन भेदेन सा यदा नान्वमन्यत।
तदा तां पातयित्वा स मैथुनायोपचक्रमे ॥ 48 ॥ 4-27-48(29481)
ततः सा धैर्यमास्थाय विवरं त ददौ तदा।
ततः स खङ्गमुत्कृष्य भीषयामास तां सतीम् ॥ 49 ॥ 4-27-49(29482)
साऽपि त्यक्तभया साध्वी प्राणत्यागे सुनिश्चिता।
प्रतिज्ञामकरोत्कृष्णे पातिव्रत्यपरायणा ॥ 50 ॥ 4-27-50(29483)
आराधितो यदि मया भर्ता मे दैवतं महत्।
कर्मणा मनसा वाचा गुरवस्तोषिता मया।
तेन सत्येन योनिर्मे भवत्वद्य शिला दृढा ॥ 51 ॥ 4-27-51(29484)
एवं तया प्रतिज्ञाते तद्योनिः सा शिलाऽभवत्।
अन्तरा नाभिजान्वोर्यत्तत्सर्वं च शिलाऽभवत् ॥ 52 ॥ 4-27-52(29485)
ततः स खङ्गमुद्धृत्य वेगेनास्याः शिरोऽहरत् ॥ 53 ॥ 4-27-53(29486)
जया नाम सखी साऽभूत्पार्वत्या नखमांसवत्।
तस्मात्पतिव्रतायाश्च दुःखमल्पं सुखं बहु ॥ ] ॥ 54 ॥ 4-27-54(29487)
एवं ते भीरु वध्यन्ते ये त्वां हिंसन्ति मानवाः।
गच्छ त्वं नगरं कृष्णे न भयं विद्यते तव ॥ 55 ॥ 4-27-55(29488)
अन्येन त्वं पथा शीघ्रं सुदेष्णाया निवेशनम्।
अन्येनाहं गमिष्यामि विराटस्य महानसम् ।
यथा नौ नावबुध्येरन्रात्रावेवं व्यवस्थितौ ॥ 56 ॥ 4-27-56(29489)
वैशम्पायन उवाच। 4-27-57x(3107)
साऽगच्छन्नगरं कृष्णा भीमेनाश्वासिता सती ॥ 57 ॥
कृतकृत्या सुदेष्णाया भवनं शुभलक्षणा । 4-27-57(29490)
शचीव नहुषे शप्ते प्रविवेश त्रिविष्टपम् ॥ 58 ॥
भीमोऽप्यमितवीर्यस्तु बलवानरिमर्दनः। 4-27-58(29491)
सर्वांस्तान्कीचकांस्तत्र हत्वा धर्मात्मजानुजः ॥ 59 ॥
निःशेषं कीचकान्हत्वा रामो रात्रिचरानिव। 4-27-59(29492)
जितशत्रुरदीनात्मा प्रविवेश पुरं ततः ॥ 60 ॥
पञ्चाधिकं शतं तत्र निहतं तेन भारत। 4-27-60(29493)
महावनमिव छिन्नं शिश्ये विगलितद्रुमम् ॥ 61 ॥
एवं ते निहता राजञ्शतं पञ्चोपकीचकाः। 4-27-61(29494)
स च सेनापतिः सूत इत्येतत्सूतषट्शतम् ॥ 62 ॥
न गन्धर्वभयाकिंचिद्वक्तुं कीचकबान्धवाः । 4-27-62(29495)
अशक्नुवन्तस्तां तत्र भयादप्यभिवीक्षितुम् ॥ 63 ॥
विराटनगरे चापि सर्वे मात्स्याः समागताः । 4-27-63(29496)
काल्यं पञ्चशतं चैतानपश्यन्सारथीन्हतान् ॥ 64 ॥
तद्दृष्ट्वा महदाश्चर्यं नरा नार्यश्च नागराः। 4-27-64(29497)
विस्मयं परमं गत्वा नोचुः किंचन भारत ॥ 65 ॥ ॥ 4-27-65(29498)
इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि सप्तविंशोऽध्यायाः ॥ 27 ॥
Mahabharata - Virata Parva - Chapter Footnotes
4-27-45 *इमे 10 श्लोकाः घo पुस्तक एव दृश्यन्ते ॥ 4-27-63 तां द्रौपदीमभिवीक्षितुमपि अशक्नुवन्तः कीचकबान्धवाः तांप्रति किंचिद्वक्तुं नाशक्नुवन्नित्यध्याहारेण योजना ॥ 63 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|